|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.31. अध्यायः 031
Mahabharata - Shanti Parva - Chapter Topics
व्यासयुधिष्ठिरसंवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-31-0x(5396)(65988)
तूष्णींभूतं तु राजानं शोचमानं युधिष्ठिरम्।
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत्॥ 12-31-1(65989)
व्यास उवाच। 12-31-2x(5397)
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन।
धर्मः प्रमाणं लोकस्य नित्यं धर्मोऽनुवर्त्यताम्॥ 12-31-2(65990)
अनुतिष्ठस्व तद्राजन्पितृपैतामहं पदम्।
ब्राह्मणेषु तु यो धर्मः स नित्यो वेदनिश्चितः॥ 12-31-3(65991)
तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ।
तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता॥ 12-31-4(65992)
तथा यः प्रतिहन्त्यस्य शासनं विषये नरः।
स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः॥ 12-31-5(65993)
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः।
भृत्यो वा यदि वा पुत्रस्तपस्वी वाऽथ कश्चन॥ 12-31-6(65994)
पापान्सर्वैरुपायैस्तान्नियच्छेच्छातयीत वा।
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्विषम्॥ 12-31-7(65995)
धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा।
ते त्वया धर्महन्तारो निहताः सपदानुगाः॥ 12-31-8(65996)
स्वधर्मे वर्तमानस्त्वं किंनु शोचसि पाण्डव।
राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः॥ 12-31-9(65997)
युधिष्ठिर उवाच। 12-31-10x(5398)
न तेऽतिशङ्के वचनं यद्ब्रवीषि तपोधन।
अपरोक्षो हि ते धर्मः सर्वधर्मविदां वर॥ 12-31-10(65998)
मया त्ववध्या बहवो घातिता राज्यकारणात्।
तानि कर्माणि मे ब्रह्मन्दहन्ति च पचन्ति च॥ 12-31-11(65999)
व्यास उवाच। 12-31-12x(5399)
ईश्वरो वा भवेत्कर्ता पुरुषो वाऽपि भारत।
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम्॥ 12-31-12(66000)
ईश्वरेण नियुक्तो हि साध्वसाधु च भारत।
कुरुते पुरुषः कर्म फलमीश्वरगामि तत्॥ 12-31-13(66001)
यथाहि पुरुषश्छिन्द्याद्वृक्षं परशुना वने।
छेत्तुरेव भवेत्पापं परशोर्न कथंचन॥ 12-31-14(66002)
अथवा तदुपादानात्प्राप्नुयात्कर्मणः फलम्।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते॥ 12-31-15(66003)
न चैतदिष्टं कौन्तेय यदन्येन कृतं फलम्।
प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय॥ 12-31-16(66004)
अथापि पुरुषः कर्ता कर्मणोः शुभपापयोः।
न परो विद्यते तस्मादेवमप्यशुभं कुतः॥ 12-31-17(66005)
न हि कश्चित्क्वचिद्राजन्दिष्टं प्रतिनिवर्तते।
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते॥ 12-31-18(66006)
यदि वा मन्यसे राजन्हतमेकं प्रतिष्ठितम्।
एवमप्यशुभं कर्म न भूतं न भविष्यति॥ 12-31-19(66007)
अथाभिपत्तिर्लोकस्य कर्तव्या पुण्यपापयोः।
अभिपन्नमिदं लोके राज्ञामुद्यतदण्डनम्॥ 12-31-20(66008)
तथापि लोके कर्माणि समावर्तन्ति भारत।
शुभाशुभफलं चैते प्राप्नुवन्तीति मे मतिः॥ 12-31-21(66009)
एवं पश्य शुभादेशं कर्मणस्तत्फलं ध्रुवम्।
त्यज त्वं राजशार्दूल मैवं शोके मनः कृथा॥ 12-31-22(66010)
स्वधर्मे वर्तमानस्य सापवादेऽपि भारत।
एवमात्मपरित्यागस्तव राजन्न शोभनः॥ 12-31-23(66011)
विहितानि हि कौन्तेय प्रायश्चित्तानि कर्मणाम्।
शरीरवांस्तानि कुर्यादशरीरः पराभवेत्॥ 12-31-24(66012)
तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं करिष्यसि।
प्रायश्चित्तमकृत्वा तु प्रेत्य तप्ताऽसि भारत॥ 12-31-25(66013)
युधिष्ठिर उवाच। 12-31-26x(5400)
हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा।
श्वशुरा गुरवश्चैव मातुलाश्च पितामहाः॥ 12-31-26(66014)
क्षत्रियाश्च महात्मानः संबन्धिसुहृदस्तथा।
वयस्या भागिनेयाश्च ज्ञातयश्च पितामह॥ 12-31-27(66015)
बहवश्च मनुष्येन्द्रा नानादेशसमागताः।
घातिता राज्यलुब्धेन मयैकेन पितामह॥ 12-31-28(66016)
तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः।
असकृत्सोमपान्वीरान्क्रिं प्राप्स्यामि तपोधन॥ 12-31-29(66017)
दह्याम्यनिशमद्यापि चिन्तयानः पुन पुनः।
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम्॥ 12-31-30(66018)
दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान्।
कोटिशश्च नरानन्यान्परितप्ये पितामह॥ 12-31-31(66019)
का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति।
विहीनानां तु तनयैः पतिभिर्भ्रातृभिस्तथा॥ 12-31-32(66020)
अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहतान्।
आक्रोशन्त्यः कृशा दीनाः प्रपतिष्यन्ति भूतले॥ 12-31-33(66021)
अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः।
त्यक्त्वा प्राणान्स्त्रियः सर्वागमिष्यन्ति यमक्षयम्॥ 12-31-34(66022)
वत्सलत्वाद्द्विजश्रेष्ठ तत्र ये नास्ति संसयः।
व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम्॥ 12-31-35(66023)
ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम्।
नकरे निपतिष्यामो ह्यधः शिरस एव ह॥ 12-31-36(66024)
शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम।
आश्रमाणां विशेषं त्वमथाचक्ष्व पितामह॥ ॥ 12-31-37(66025)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकत्रिंशोऽध्यायः॥ 31॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-31-7 शातयीत मारेयत्॥ 12-31-11 मे माम्॥ 12-31-12 नापरो वर्तते लोके कर्मजं वा फलं नृषु। इति ड.थ. पाठः॥ 12-31-15 प्राप्नुयात् परशोरुपादाता। एवं तर्हि विन परशोर्दण्डः शस्त्रं परशुश्च कृतस्तमेव पापं कर्तृ प्राप्नुयात्तस्य प्रथमप्रयोज्यत्वात्। पुरुषे उपादातरि तन्न विद्यते तस्य जघन्यत्वात्॥ 12-31-16 यदि चैतन्नेष्टं एतत्किं यदन्येन प्रहर्त्रा कृतं पापं तस्य फलं शस्त्रकर्ता आप्नुयादिति। तर्हि जघन्यप्रयोज्ये त्वय्यपि पापाभावादीश्वरे एव तन्निवेशय॥ 12-31-18 यतः कश्चिदपि दिष्टं प्रत्यद्द्वष्टस्य प्रतिकूलो भूत्वावश्यंभाविनः कर्मणः सकाशान्न निवर्तते। दैवस्य दुर्लङघ्यत्वादिति भावः॥ 12-31-20 पुण्यपापयोः सुख दुःखयोः अभिपत्तिरुपपत्तिः कर्तव्या साच धर्माधर्मावन्तरेण न घटते तौच शास्त्रैकगम्याविति चेद्राज्ञामुद्यतदण्डनमुद्धतदमनं लोके शास्त्रे चोपपन्नतरमित्यर्थः॥ 12-31-23 सापवादे निन्द्येऽपि॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|